ककुभं रूपं वृषभस्य रोचते बृहद् वसूनाम् आधीतौ रुद्राणां कर्मन्न् आदित्यानां चेतसीन्द्राय त्वा विभूवसे जुहोम्य् उशिक् त्वं देव सोम गायत्रेण छन्दसाग्नेर् धामोपेहि वशी त्वं देव सोम त्रैष्टुभेन छन्दसेन्द्रस्य धामोपेह्य् अस्मत्सखा देव सोम जागतेन छन्दसा विश्वेषां देवानां प्रियं पाथा उपेहि ॥म्स्_१,३।३६॥
उद् उ त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम् ॥
चित्रं देवानाम् उदगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस् तस्थुषश् च ॥
द्यां गछ स्वर् गछ रूपं वो रूपेणाभ्येमि वयसा वयस् तुथो वो विश्ववेदा विभजतु वर्षिष्ठे अधि नाके पृथिव्याः ॥
एतत् ते अग्ने राध एति सोमच्युतं तन् मित्रस्य पथा नय ॥
अयं नो अग्निर् वरिवस् कृणोत्व् अयं मृधः पुर एतु प्रभिन्दन् ।
अयं शत्रून् जयतु जर्हृषाणो ऽयं वाजं जयतु वाजसातौ ॥
ऋतस्य पथा प्रेत चन्द्रदक्षिणा ब्राह्मणम् अद्य ऋध्यासं पितृमन्तं पैतृमत्यम् ऋषिम् आर्षेयं सुधातुदक्षिणम् ॥