तासाम् एकाम् अदधुर् मर्त्ये भुजं लोकम् उ द्वे उप जामी ईयतुः ॥म्स्_१,३।३५॥
अग्निः प्रातः सवनात् पात्व् अस्मान् वैश्वानरो विश्वश्रीर् विश्वशम्भूः ।
स नः पावको द्रविणं दधात्व् आयुष्मन्तः सहभक्षाः स्याम ॥
अग्नये त्वा प्रवृहामि गायत्रेण छन्दसेन्द्राय त्वा प्रवृहामि त्रैष्टुभेन छन्दसादित्येभ्यस् त्वा प्रवृहामि जागतेन छन्दसा रेशीनां त्वा पत्मन्न् आधूनोमि मान्दानां त्वा पत्मन्न् आधूनोमि भन्दनानां त्वा पत्मन्न् आधूनोमि पूतनानां त्वा पत्मन्न् आधूनोमि पस्त्यानां त्वा पत्मन्न् आधूनोमि माध्वीनां त्वा पत्मन्न् आधूनोमि मदुघानां त्वा पत्मन्न् आधूनोमि देवयानीनां त्वा पत्मन्न् आधूनोम्य् उपयामगृहीतो ऽसि शुक्रं त्वा शुक्र शुक्राय गृह्णाम्य् अह्नो रूपे सूर्यस्य रश्मिषु ॥
आ समुद्रा अचुच्यवुर् दिवो धारा असश्चत ॥