उपयामगृहीतो ऽसीन्द्राय त्वा हरिवत एष ते योनिर् इन्द्राय त्वा हरिवते ॥म्स्_१,३।३४॥
उपयामगृहीतो ऽसि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामि रातं देवेभ्यो दक्षाय दक्षवृधम् अग्निह्वरेभ्यस् त्वा ऋतायुभ्या इन्द्रज्येष्ठेभ्यो वरुणराजभ्यो वातापिभ्यः पर्जन्यात्मभ्यः पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वाद्भ्यस् त्वौषधीभ्यो वनस्पतिभ्यस् त्वा प्राणाय त्वापानाय त्वा व्यानाय त्वा सते त्वासते त्वा भूताय त्वा भव्याय त्वा येन प्रजा अछिद्रा अजायन्त तस्मै त्वा प्रजापतये विश्वकर्मणे विश्वव्यचसे विभूदाव्ने विभुं भागं जुहोमि स्वाहा ॥
तिस्रो जिह्वस्य समिधः परिज्मनो ऽग्नेर् अकृण्वन्न् उशिजो अमृत्यवे ।