अग्ना३इ पत्नीवा३न्त् सजूस् त्वष्ट्रा सोमं पिब ॥म्स्_१,३।२९॥ उपयामगृहीतो ऽसि हरिर् असि हारियोजनो हरिवान् हर्योः स्थाता स्तुतस्तोमस्य ते देव सोम शस्तोक्थस्येष्टयजुषः ॥ हरिवतो हारियोजनस्य हरिवन्तं ग्रहं राध्यासम् ॥