२५

उपयामगृहीतो ऽसि महेन्द्राय त्वैष ते योनिर् महेन्द्राय त्वा ॥म्स्_१,३।२५॥

कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे ।
उपोपेन् नु मघवन् भूया इन् नु ते दानं देवस्य पृच्यते ॥

उपयामगृहीतो ऽस्य् आदित्येभ्यस् त्वा ॥

कदा चन प्रयुछस्य् उभे निपासि जन्मनी ।
तुरीयादित्य सवनं त इन्द्रियम् आतस्था अमृतं दिवि ॥

उपयामगृहीतो ऽस्य् आदित्येभ्यस् त्वा ॥

यज्ञो देवानां प्रत्येतु सुम्नम् आदित्यासो भवता मृडयन्तः ।
आ वो ऽर्वाची सुमतिर् ववृत्याद् अंहोश् चिद् या वरिवोवित्तरासत् ॥

अहं परस्ताद् अहम् अवस्ताद् अहं विश्वस्य भुवनस्य राजा ।
अहं सूर्यम् उभयतो ददर्श यद् अन्तरिक्षं तद् उ नः पिताभूत् ॥

उन्नम्भय पृथिवीं भिन्ध्य् अदो दिव्यं नभः ।