२२

उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥म्स्_१,३।२२॥

सजोसा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ।
जहि शत्रूंर् अप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥