१४

एष ते योनिर् इन्द्राय त्वोपयामगृहीतो ऽसि देवेभ्यस् त्वा देवायुवं गृह्णामि पुनर्हविर् असि देवेभ्यस् त्वा देवायुवं पृणच्मि यज्ञस्यायुषे ॥म्स्_१,३।१४॥

मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरम् ऋत आ जातम् अग्निम् ।
कविं सम्राजम् अतिथिं जनानाम् आसन्न् आ पात्रं जनयन्त देवाः ॥

उपयामगृहीतो ऽसि वैश्वानराय त्वा ॥

ध्रुवो ऽसि ध्रुवक्षितिर् ध्रुवाणां ध्रुवतमो ऽच्युतानाम् अच्युतक्षित्तम एष ते योनिर् वैश्वानराय त्वा ॥

ध्रुवं ध्रुवेण हविषा वः सोमं नयामसि ।
यथा नः सर्वा इज् जनः सङ्गमे सुमना असत् ॥