उपयामगृहीतो ऽस्य् आग्रायाणो ऽसि स्वाग्रायणो जिन्व यज्ञं जिन्व यज्ञपतिम् अभि सवनानि पाह्य् अतस् त्वा विष्णुः पातु विशं त्वं पाहीन्द्रियेणैष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥म्स्_१,३।१३॥
उपयामगृहीतो ऽसि ॥
इन्द्राय त्वा बृहद्वते वयस्वत उक्थायुवम् ।
यत् त इन्द्र बृहद् वयस् तस्मै त्वा विष्णवे त्वा ॥