उपयामगृहीतो ऽसि मर्काय त्वैष ते योनिः प्रजाभ्यस् त्वा ॥म्स्_१,३।११॥
अपनुत्तौ शण्डामर्कौ सह तेन यं द्विष्मो ऽछिन्नस्य ते देव सोम दक्षस्य रायस्पोषस्य सुवीर्यस्याभिरहीतारः स्याम ॥
तुथो ऽसि जनधाया देवास् त्वा शुक्रपाः प्रणयन्तु तुथो ऽसि जनधाया देवास् त्वा मन्थिपाः प्रणयन्त्व् अनाधृष्टासि सुवीराः प्रजाः प्रजनयन् परीहि सुप्रजाः प्रजाः प्रजनयन्न् अभिपरीहि ॥
इन्द्रेण मन्युना युजावबाधे पृतन्यतः ।
घ्नता वृत्रान्य् अप्रति ॥
सञ्जग्मानौ दिवा पृथिव्या शुक्रौ शुक्रशोचिषौ तौ देवौ शुक्रामन्थिना आयुर् यज्ञे धत्तम् आयुर् यज्ञपतौ पुमांसं गर्भम् आधत्तं गवीण्योः प्राणान् पशुषु यछतं शुक्रस्याधिष्ठानम् असि मन्थिनो ऽधिष्ठानम् असि निरस्तः शण्डो निरस्तो मर्कः सह तेन यं द्विष्मः ॥
या प्रथमा संस्कृतिर् यज्ञे अस्मिन् यः परमो बृहस्पतिश् चिकित्वान् ।