उपयामगृहीतो ऽसि विष्णोस् त्वोरुक्रमे गृह्णामि विष्ण उरुक्रमैष ते सोमस् तं रक्षस्व मा त्वा दभन् दुश्चक्षास् ते मावक्शद् अयं वसुः पुरोवसुर् वाक्पा वाचं मे पात्व् अयं वसुर् विदद्वसुश् चक्षुष्पाश् चक्षुर् मे पात्व् अयं वसुः संयद्वसुः श्रोत्रपाः श्रोत्रं मे पातु ॥म्स्_१,३।९॥
अयं वेनश् चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने ।
इमम् अपां सङ्गमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥