उपयामगृहीतो ऽस्य् अश्विभ्यां त्वैष ते योनिर् माध्वीभ्यां त्वा ॥म्स्_१,३।८॥
उपयामगृहितो ऽसि देवेभ्यस् त्वोपयामगृहीतो ऽसि विश्वदेवेभ्यस् त्वोपयामगृहीतो ऽसि विश्वेभ्यस् त्वा देवेभ्यः ॥
दितेः पुत्राणाम् अदितेर् अकारिषम् उरुशर्मणां बृहतां वरूथिनाम् ।
येषां नामानि विहितानि धामशश् चित्तैर् यजन्ति भुवनाय जीवसे ॥