वाक् त्वाष्टु स्वाहा त्वा सुभव सूर्याय देवेभ्यस् त्वा मरीचिपेभ्यो ऽपानाय त्वा ॥म्स्_१,३।५॥
आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार ।
उपो ते अन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् ॥
उपयामगृहीतो ऽसि वायवे त्वा ॥
इन्द्रवायू इमे सुता उप प्रयोभिर् आगतम् ।
इन्दवो वाम् उशन्ति हि ॥