०४

मधुमतीर् ना इषस् कृधि स्वाङ्कृतो ऽस्य् उर्व् अन्तरिक्षं वीहि विश्वेभ्य इन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यो मनस् त्वाष्टु स्वाहा त्वा सुभव सूर्याय देवेभ्यस् त्वा मरीचिपेभ्यः प्राणाय त्वा यत् ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा प्राग् अपाग् अधराग् उदग् एतास् त्वा दिशा आधावन्त्व् अम्ब निस्मर सम् अरिर् विदाम् ॥म्स्_१,३।४॥
त्वाष्टु : फ़्न् ओएर्तेल्, ज़ुर् कपिष्ठल-कठ-संहिता, प्। ११४

उपयामगृहीतो ऽसि ॥

अन्तर् यछ मघवन् पाहि सोमम् उरुष्य रायः सम् इषो यजस्व ॥

अन्तस् ते द्यावापृथिवी दधाम्य् अन्तर् दधाम्य् उर्व् अन्तरिक्षम् ।
सजोषा देवैर् अवरैः परैश् चान्तर्यामे मघवन् मादयस्व ॥