०२

निग्राभ्याः स्थ देवश्रुतस् तर्पयत मायुर् मे तर्पयत तर्पयत मा प्रांअं मे तर्पयत तर्पयत मापानं मे तर्पयत तर्पयत मा व्यानं मे तर्पयत तर्पयत मा चक्षुर् मे तर्पयत तर्पयत मा श्रोत्रं मे तर्पयत तर्पयत मा मनो मे तर्पयत तर्पयत मा वाचम् मे तर्पयत तर्पयत मात्मानं मे तर्पयत तर्पयत मा प्रजां मे तर्पयत तर्पयत मा गृहान् मे तर्पयत तर्पयत मा पशून् मे तर्पयत तर्पयत मा गणैर् मा मा वितीतृषत तर्पयत मा ॥म्स्_१,३।२॥

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आददे ग्रावास्य् अध्वरकृद् देवेभ्यो गभीरम् इमम् अध्वरं कृधि ॥

इन्द्राय त्वा सुषुत्तमं मधुमन्तं पयस्वन्तम् ।
इन्द्राय त्वाभिमातिघ्न इन्द्राय त्वा वसुमते रुद्रवत इन्द्राय त्वादित्यवते ॥

अग्नये त्वा रायस्पोषदे विष्णवे त्वा श्येनाय त्वा सोमभृते विष्णवे त्वा ॥

श्वात्राः स्थ वृत्रतुरो राध्वं गूर्ता अमृतस्य पत्नीः ।
ता देवीर् देवत्रेमं यज्ञं धत्तोपहूताः सोमस्य पिबत ॥