१८

यो अस्मान् द्वेष्टि यं च वयं द्विष्मः ॥म्स्_१,२।१८॥

हविष्मतीर् इमा आपो हविष्मान् देवो अध्वरः ।
हविष्मं आविवासति हविष्मं अस्तु सूर्यः ॥

अग्नेर् वो ऽपन्नगृहस्य सदसि सादयामि देवानां भागधेयीः स्थेन्द्राग्न्योर् भागधेयीः स्थ मित्रावरुणयोर् भागधेयीः स्थ विश्वेषां देवानां भागधेयीः स्थ सुम्नायुवः सुम्न्याय सुम्नं धत्त ॥
विश्वेषां : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
सुम्न्याय : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा ।
ऊर्ध्वम् इमम् अध्वरं दिवि देवेषु होत्रा यछ ॥

शृणोत्व् अग्निः समिधा हवं मे शृण्वन्त्व् आपो धिषणाश् च देवीः ।
शृणोत ग्रावाणो विदुषो नु यज्ञं शृणोतु देवः सविता हवं मे ॥
देवीः : फ़्न् च्फ़्। ४।५।२:६४।११: धिषणा च देवीति

देवीर् आपो अपां नापाद् य ऊर्मिर् हविष्य इन्द्रियावान् मदिन्तमस् तं देवेभ्यः शुक्रपेभ्यो दात येषां भागः स्थ स्वाहा कार्ष्य् असि समुद्रस्य वो ऽक्षित्या उन्नये वसूनां रुद्राणाम् आदित्यानां पन्नेजनीः स्थ वसवो रुद्रा आदित्या एता वः पन्नेजनीः समुद्रं गन्धर्वेष्ठाम् अन्वातिष्ठत वातस्य पत्मनेडिता वामी ते सन्दृशि विश्वं रेतो धेषीय तव वामीर् अनु सन्दृशि ॥

यम् अग्ने पृत्सु मर्त्यम् अवा वाजेषु यं जुनाः ।
स यन्ता शश्वतीर् इषः ॥