देवत्रा यन्तम् अवसे सखायो अनु त्वा माता पितरो मदन्तु ॥म्स्_१,२।१७॥
समुद्रं गछ स्वाहान्तरिक्षं गछ स्वाहा देवं सवितारं गछ स्वाहाहोरात्रे गछ स्वाहा मित्रावरुणौ गछ स्वाहा द्यावापृथिवी गछ स्वाहा छन्दांसि गछ स्वाहा सोमं गछ स्वाहा यज्ञं गछ स्वाहा दिव्यं नभो गछ स्वाहाग्निं वैश्वानरं गछ स्वाहा मनो हार्दिं यछौषधीभ्यस् त्वा ॥
धाम्नोधाम्नो राजन्न् इतो वरुण नो मुञ्च यद् आपो अघ्न्या वरुणेति शपामहै ।
ततो वरुण नो मुञ्च ॥
उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमं श्रथाय ।
अथा वयम् आदित्य व्रते तवानागसो अदितये स्याम ॥
सुमित्रा ना आपा ओषधयः सन्तु दुर्मित्रास् तस्मै सन्तु ।