१६

उर्व् अन्तरिक्षं वीहि प्रत्युष्टं रक्षः प्रत्युष्टारातिर् वायोः स्तोकानां प्रयुता द्वेषांसि स्वाहोर्ध्वनभसं मारुतं देवं गछतम् ॥म्स्_१,२।१६॥
द्वेषांसि : फ़्न् च्फ़्। ३।१०।१:१३१।२
स्वाहोर्ध्वनभसं : फ़्न् च्फ़्। ३।१०।१:१३१।२

जुष्टं देवेभ्यो हव्यं घृतावद् अमुष्मै त्वा जुष्टं रेड् अस्य् अग्निष् ट्वा श्रीणात्व् आपस् त्वा समरिण्वन् वातस्य त्वा ध्राज्यै पूष्णो रंह्या ऊष्मणो ऽव्यथिषे ऽपाम् ओषधीनां रसो घृतं घृतपावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविर् असि स्वाहा त्वा वाताय दिशः प्रदिश आदिशो विदिश उद्दिशो दिश ऐन्द्रः प्राणो अङ्गे अङ्गे निदीध्यद् ऐन्द्रो ऽपानो अङ्गे अङ्गे निबोभुवद् ऐन्द्रो व्यानो अङ्गे अङ्गे विबोभुवत् ॥

देव त्वष्टर् भूरि ते सत् समेतु सलक्ष्म यद् विषुरूपं बभूव ।