यो नो द्वेष्ट्य् अधरः स पद्यतां तस्मिन् पाशान् प्रतिमुञ्चाम एतान् ॥म्स्_१,२।१५॥
एतान् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
नमस् त आतानानर्वा प्रेहि यजमानाय घृतस्य कुल्याम् अनु सह रायस्पोषेण देवीर् आपः शुद्धा यूयं देवान् युयुध्वं शुद्धा वयं सुपरिविष्टाः परिवेष्टारो वो भूयास्म वाचम् अस्य मा हिंसीः प्राणम् अस्य मा हिंसीश् चक्षुर् अस्य मा हिंसीः श्रोत्रम् अस्य मा हिंसीर् यत् ते क्रूरं यद् आस्थितं तद् एतेन शुन्धस्व देवेभ्यः शुम्भस्व गात्राण्य् अस्य मा हिंसीश् चरित्रान् अस्य मा हिंसीर् नाभिम् अस्य मा हिंसीर् मेढ्रम् अस्य मा हिंसीः पायुम् अस्य मा हिंसीः शम् अद्भ्यः ॥
ओषधे त्रायस्वैनं स्वधिते मैनं हिंसीः ।
या ते शिवतमा तनूस् तयैनम् उपस्पृश ॥
पृथिव्यै त्वा रक्षसां भागो ऽसीदम् अहं रक्षो ऽवबाध इदम् अहं रक्षो ऽधमं तमो नयामीषे त्वोर्जे त्वा देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्व ॥
घृतेन द्यावापृथिवी प्रोर्णुवाताम् अमुष्मै त्वा जुष्टं नमः सूर्यस्य सन्दृशे ॥