परिवीर् असि परि त्वा दैवीर् विशो व्ययन्तां परीमं यजमानं मनुष्याः सह रायस्पोषेण प्रजया च व्ययन्तां दिवः सानूपेष दिवं ते धूमो गछत्व् अन्तरिक्षं ज्योतिः पृथिवीं भस्म स्वाहा ॥म्स्_१,२।१४॥
इषे त्वोपावीर् अस्य् उपो देवान् दैवीर् विशः प्रागुर् वह्नय उशिजो बृहस्पते धारया वसूनि हव्या ते स्वदं देव त्वष्टर् वसु रणे रेवती रमध्वं देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आदद ऋतस्य त्वा देवहविः पाशेन प्रतिमुञ्चाम्य् अमुष्मै त्वा जुष्टं धर्षा मानुषा अद्भ्यस् त्वौषधीभ्यो जुष्टं प्रोक्षाम्य् अनु त्वा माता मन्यताम् अनु पितानु भ्राता सगर्भ्यो ऽनु सखा सयूथ्यो ऽनुमानावह देवान् देवायते यजमानायापां पेरुर् असि स्वात्तं सद् धविर् आपो देवीः स्वदन्तु सं ते वायुर् वातेन गछतां सं यजत्रैर् अङ्गानि सं यज्ञपतिर् आशिषा घृतेनाक्तौ पशूंस् त्रायेथाम् ॥
मानुषास् : फ़्न् प्: मानुषः
ये बध्यमानम् अनु बध्यमाना अन्वैक्षन्त मनसा चक्षुषा च ।
अग्निष् टं अग्रे प्रमुमोक्तु देवः प्रजापतिः प्रजया संरराणः ॥
टं : फ़्न् प्: तान्।
रेवति प्रेधा यज्ञपतिम् आविशोरो अन्तरिक्ष सजूर् देवेन वातेन ॥
त्मनास्य हविषो यज सम् अस्य तन्वा भव ।
वर्षीयो वर्षीयसो यज्ञं यज्ञपतौ धाः ॥
स्वर्विद् असि स्वर् वित्त्वा स्वर् इहि स्वर् मह्यं स्वः पशुभ्यो लोकविद् असि लोकं वित्त्वा लोकम् इहि लोकं मह्यं लोकं पशुभ्यो नाथविद् असि नाथं वित्त्वा नाथम् इहि नाथं मह्यं नाथं पशुभ्यो गातुविद् असि गातुं वित्त्वा गातुम् इहि गातुं मह्यं गातुं पशुभ्यः ॥
न वा एतन् म्रियसे नोत रिष्यसि देवं इद् एषि पथिभिः शिवेभिः ।
यत्र यन्ति सुकृतो नापि दुष्कृतस् तत्र त्वा देवः सविता दधातु ॥
शमितार उपेतन यज्ञं देवेभिर् अन्वितम् ।
पाशात् पशुं प्रमुञ्चत बन्धाद् यज्ञपतिं परि ॥
अदितिः पाशान् प्रमुमोक्त्व् एतान् पशोः पाशान् पशुपतेर् अधि ।