१३

उर्व् अन्तरिक्षं वीह्य् अदित्याः सदा आसीद देव सवितर् एष ते सोमस् तं रक्षस्व मा त्वा दभन् दुश्चक्षास् ते मावक्शद् एतत् त्वं देव सोम देवान् उपावृतेदम् अहं मनुष्यान्त् सह रायस्पोषेण प्रजया चोपावर्ते नमो देवेभ्यः स्वधा पितृभ्यो निर् वरुणस्य पाशाद् अमुक्षि स्वर् अभिव्यक्शं ज्योतिर् वैश्वानरम् अग्ने व्रतपते या तव तनूर् मय्य् अभूद् एषा सा त्वय्य् अग्ने व्रतपते या मम तनूस् त्वय्य् अभूद् इयं सा मयि पुनर् नौ व्रतपते व्रतिनोर् व्रतानि यथायथं नौ व्रतपते व्रतिनोर् व्रतानि वि व्रतानि सृजावहै ॥म्स्_१,२।१३॥
उपावृत : फ़्न् ⟨ उपावृतस्
उपावृत : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्: लिएस् उपावृत्त स्तत्त् उपावृत
उपावृत : फ़्न् च्फ़्। ३।९।१:११३।१४: उपावृता इति। अवृतस् स्ग्२ अओरिस्त्

अत्य् अन्यान् अगां नान्यान् उपागाम् अर्वाक् त्वा परेभ्यः परो ऽवरेभ्यो ऽविदं तं त्वा जुषामहे देवयज्यायै जुष्टं विष्णवे विष्णवे त्वा ॥

उरु विष्णो विक्रमस्वोरु क्षयाय नस् कृधि ।
घृतं घृतवने पिब प्रप्र यज्ञपतिं तिर ॥ स्वाहा ॥

ओषधे त्रायस्वैनं स्वधिते मैनं हिंसीः ।
या ते शिवतमा तनूस् तयैनम् उपस्पृश ॥

यं त्वाम् अयं स्वधितिस् तिग्मतेजाः प्रणिनाय महते सौभगाय ।
दिवम् अग्रेण मा हिंसीर् अन्तरिक्षं मध्येन पृथिव्या सम्भव भ्राजं गछ ।
वनस्पते शतवल्शो विरोह सहस्रवल्शा वि वयं रुहेम ॥

पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वा शुन्धन्तां लोकाः पितृषदना यवो ऽसि यवय द्वेषो अस्मद् यवयारातिं पितृषदनं त्वा लोकम् अवस्तृणामि ॥

स्वावेशो ऽस्य् अग्रेगा नेत्πणाम् अधि त्वा स्थास्यति तस्य वित्स्व ॥

घृतेन द्यावापृथिवी आपृण देवस् त्वा सविता मध्वानक्तु ॥

इन्द्रस्य चषालम् असि सुपिप्पला ओषधीस् कृधि दिवम् अग्रेणोत्तभानान्तरिक्षं मध्येनापृण पृथिवीम् उपरेण दृम्ह ॥

ता ते धामान्य् उश्मसि गमध्यै गावो यत्र भूरिशृङ्गा अयासः ।
अत्राह तद् उरुगायस्य विष्णोः परमं पदम् अवभाति भूरि ॥

विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
इन्द्रस्य युज्यः सखा ॥

ब्रह्मवनिं त्वा क्षत्रवनिं पर्यूहामि ब्रह्म दृम्ह क्षत्रं दृम्ह रायस्पोषं दृम्ह प्रजां दृम्ह सजातान् अस्मै यजमानाय दृम्ह ॥

तद् विष्णोः परमं पदं शच्या पश्यन्ति सूरयः ।
दिवीव चक्षुर् आततम् ॥