विभूर् असि प्रवाहणो वह्निर् असि हव्यवाहनः श्वात्रो ऽसि प्रचेतास् तुथो ऽसि विश्ववेदा अवस्युर् असि दुवस्वान् अङ्घारिर् असि बम्भारिर् उशिग् असि कविः शुन्ध्युर् असि मार्जालीयः सम्राड् असि कृशानुः परिषद्यो ऽस्य् आस्तव्यो नभो ऽसि प्रतक्वासम्मृष्टो ऽसि हव्यसूदनः सगरो ऽसि विश्ववेदा ऋतधामासि स्वर्ज्योतिः समुद्रो ऽसि विश्वव्यचा अजो ऽस्य् एकपाद् अहिर् असि बुध्न्यः कव्यो ऽसि कव्यवाहनो रौद्रेणानीकेन पाहि माग्ने पिपृहि मा नमस् ते अस्तु मा मा हिंसीः ॥म्स्_१,२।१२॥
त्वं सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्यः ।
उरु यन्तासि वरूथम् ॥ स्वाहा ॥
जुषाणो अप्तुर् आज्यस्य वेतु ॥ स्वाहा ॥
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमौक्तिं विधेम ॥
उरु विष्णो विक्रमस्वोरु क्षयाय नस् कृधि ।
घृतं घृतवने पिब प्रप्र यज्ञपतिं तिर ॥ स्वाहा ॥
एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरम् अमृतस्य गोपाम् ।
स नः शर्म त्रिवरूथं वियंसत् पातं नो द्यावापृथिवी उपस्थे ॥