११

इन्द्राय त्वेन्द्रस्य स्यूर् असीन्द्रस्य ध्रुवो ऽस्य् ऐन्द्रम् असीन्द्राय त्वा रक्षोघ्नो वो वलगघ्नः प्रोक्षामि वैष्णवान् रक्षोहणं त्वा वलगहनम् अवसिञ्चामि वैष्णवं रक्षोहणं त्वा वलगहनम् अवस्तृणामि वैष्णवं रक्षोघ्नी वां वलगघ्नी उपदधामि वैष्णवी रक्षोघ्नी वां वलगघ्नी पर्यूहामि वैष्णवी रक्षोहणं त्वा वलगहनम् आस्तृणामि वैष्णवम् ॥म्स्_१,२।११॥