१०

कृण्वानो अन्यं अधरान्त् सपत्नान् ॥म्स्_१,२।१०॥

पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वा शुन्धन्तां लोकाः पितृषदना यवो ऽसि यवय द्वेषो अस्मद् यवयारातिं पितृषदनं त्वा लोकम् अवस्तृणामि ॥

उञ्श्रयस्व वनस्पते सजूर् देवेन बर्हिषा ।
नितानस् त्वा मारुतो निहन्तु मित्रावरुणौ ध्रुवेण धर्मणा ॥

ब्रह्मवनिं त्वा क्षत्रवनिं पर्यूहामि ब्रह्म दृम्ह क्षत्रं दृम्ह रायस्पोषं दृम्ह प्रजां दृम्ह सजातान् अस्मै यजमानाय दृम्ह ॥

घृतेन द्यावापृथिवी आपृण विश्वजनस्य छायासि ॥

परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः ।
वृद्धायुम् अनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥