०९

यस्योरुषु त्रिषु विक्रमणेष्व् अधिक्षियन्ति भुवनानि विश्वा ॥म्स्_१,२।९॥

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आददे ऽभ्रिर् असि नारिर् असीदम् अहं रक्षसो ग्रीवा अपिकृन्तामीदम् अहं यो मे समानो यो ऽसमानो ऽरातीयति तस्य ग्रीवा अपिकृन्तामि बृहन्न् असि बृहद्राया बृहतीम् इन्द्राय वाचं वद रक्षोहणं वलगहनं वैष्णवीं सम्राड् असि सपत्नहेदम् अहं तान् वलगान् उद्वपामि यान् मे समानो यान् असमानो निचखान ये कुल्फदघ्ने निरस्तो वलगः स्वराड् अस्य् अभिमातिहेदम् अहं तान् वलगान् उद्वपामि यान् मे सजातो यान् असजातो निचखान ये जानुदघ्ने निरस्तो वलगो विराड् असि रक्षोहेदम् अहं तान् वलगान् उद्वपामि यान् मे सबन्धुर् यान् असबन्धुर् निचखान ये नाभिदघ्ने निरस्तो वलगः सत्रराड् अस्य् अशस्तिहेदम् अहं तान् वलगान् उद्वपामि यान् मे भ्रातृव्यो यान् अभ्रातृव्यो निचखान ये अंसदघ्ने निरस्तो वलगः सर्वराड् अस्य् अरातीयतो हन्तेदम् अहं तान् वलगान् उद्वपामि यान् मे सजन्यो यान् असजन्यो निचखान ये शीर्षदघ्ने निरस्तो वलगः ॥

सम्मृश इमान् आयुषे वर्चसे च देवानां निधिर् असि द्वेषोयवनः ।
युयोध्य् अस्मद् द्वेषांसि यानि कानि च चकृम ॥

देवानाम् इदं निहितं यद् अस्त्य् अथाभाहि प्रदिशश् चतस्रः ।