वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा विराजति ॥म्स्_१,२।८॥
देवश्रुतौ देवेष्व् आघोषेथाम् ॥
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
वि होत्रा दधे वयुनाविद् एका इन् मही देवस्य सवितुः परिष्टुतिः ॥
अप जन्यं भयं नुद मा चक्रा आवृत्सत ।
गृहं सोमस्य गछतं गछद् इन्द्रस्य निष्कृतम् ॥
इदं विष्णुर् विचक्रमे त्रेधा निदधे पदा ।
समूढम् अस्य पांसुरे ॥
इरावती धेनुमती हि भूतं सूयवसिनी मनवे यशस्ये ।
व्यष्कभ्ना रोदसी विष्ण एते दाधर्थ पृथिवीम् अभितो मयूखैः ॥
सुवाग् आवद देव दुर्यं अरिष्यन्न् अरिष्यतः ॥
आ नो वीरो जायतां कर्मण्यो ऽभिशस्तिपा अनभिशस्तेन्यः ।
यं बहवो ऽनुजीवान् यो बहूनाम् असद् वशी ॥
वैष्णवम् असि विष्णुस् त्वोत्तभ्नातु ॥
दिवो विष्ण उत वा पृथिव्या उरोर् वा विष्णो बृहतो अन्तरिक्षात् ।
हस्तौ पृणस्व बहुभिर् वसव्यैर् आ प्रयछ दक्षिणाद् ओत सव्यात् ॥
विष्णोर् नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि ।
यो अस्कभायद् उत्तरं सधस्थं विचक्रमाणस् त्रेधोरुगायः ॥
विष्णोः पृष्ठम् असि विष्णो रराटम् असि विष्णोः शिप्रे स्थो विष्णोः स्यूर् असि विष्णोर् ध्रुवो ऽसि वैष्णवम् असि विष्णवे त्वा ॥
प्र तद् विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः ।