०७

या ते अग्ने रजाशया या ते अग्ने हराशया या ते अग्ने रुद्रिया तनूस् तया नः पाहि तस्यै ते स्वाहा ॥म्स्_१,२।७॥

तप्तायनी मे ऽसि वित्तायनी मे ऽस्य् अवतान् मा नाथितम् अवताद् व्यथितम् अग्ने अङ्गिरो यो ऽस्यां पृथिव्याम् अध्य् अस्य् आयुना नाम्नेहि वसवस् त्वा हरन्तु गायत्रेण छन्दसा वित्स्व यज्ञपतेर् यत् ते ऽनाधृष्टं धामानाधृष्यं तेन त्वादधे ऽग्ने अङ्गिरो यो द्वितीयस्यां पृथिव्याम् अध्य् अस्य् आयुना नाम्नेहि रुद्रास् त्वा हरन्तु त्रैष्टुभेन छन्दसा वित्स्व यज्ञपतेर् यत् ते ऽनाधृष्टं धामानाधृष्यं तेन त्वादधे ऽग्ने अङ्गिरो यस् तृतीयस्यां पृथिव्याम् अध्य् अस्य् आयुना नाम्नेह्य् आदित्यास् त्वा हरन्तु जागतेन छन्दसा वित्स्व यज्ञपतेर् यत् ते ऽनाधृष्टं धामानाधृष्यं तेन त्वादधे विदेर् अग्ने नभो नाम यत् ते सिंहीर् असि महिषीर् असि देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्वेन्द्रघोषास् त्वा पुरस्ताद् वसुभिः पान्तु पितरस् त्वा मनोजवा दक्षिणतः पान्तु रुद्रास् त्वा प्रचेतसः पश्चात् पान्तु विश्वकर्मा त्वादित्यैर् उत्तरात् पातु सिंहीर् असि सपत्नसाही स्वाहा सिंहीर् असि रायस्पोषवनिः स्वाहा सिंहीर् असि सुप्रजावनिः स्वाहा सिंहीर् अस्य् आदित्यवनिः सजातवनिः स्वाहा सिंहीर् अस्य् आवह देवान् देवायते यजमानाय स्वाहा भूतेभ्यस् त्वा विश्वायुर् असि पृथिवीं दृम्ह ध्रुवक्षितिर् अस्य् अन्तरिक्षं दृंहाच्युतक्षिद् असि दिवं दृंहाग्नेर् भस्मास्य् अग्नेः पुरीषम् अस्य् अग्नेः कुलायम् असि ॥

विभ्राड् बृहत् पिबतु सोम्यं मध्व् आयुर् दधद् यज्ञपता अविह्रुतम् ।