०६

विचृत्तो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाशो नमो वरुणस्य पाशायाग्नेस् तनूर् असि विष्णवे त्वा सोमस्य तनूर् असि विष्णवे त्वातिथेर् आतिथ्यम् असि विष्णवे त्वाग्नये त्वा रायस्पोषदे विष्णवे त्वा श्येनाय त्वा सोमभृते विष्णवे त्वा वारुणम् असि वरुणो ऽसि धृतव्रतो वरुणस्य ऋतसदनम् आसीद वरुणाय त्वा ॥म्स्_१,२।६॥

अग्नेर् जनित्रम् असि वृषणौ स्थ उर्वश्य् अस्य् आयुर् असि पुरूरवा असि गायत्रम् असि त्रिष्टुब् असि जगद् असि ॥

भवतं नः समनसौ समोकसौ सचेतसा अरेपसौ ॥

मा यज्ञं हिंसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः ॥

अग्ना अग्निश् चरति प्रविष्टा ऋषीणां पुत्रो अधिराज एषः ॥

तस्मै विधेम हविषा वयं मा देवानां यूयुपाम भागधेयम् ॥

आपतये त्वा गृह्णामि परिपतये त्वा गृह्णामि तनूनप्त्रे शक्मने शक्वराय शक्मना ओजिष्ठायानाधृष्टम् अस्य् अनाधृष्यं देवानाम् ओजः ॥ अभिशस्तिपा अनभिशस्तेन्यम् ॥

अनु म इदं व्रतं व्रतपतिर् मन्यताम् अनु दीक्षां दीक्षापतिर् अञ्जसा सत्यम् उपागां सुविते मा धा अग्ने व्रतपते या मम तनूर् एषा सा त्वय्य् अग्ने व्रतपते या तव तनूर् इयं सा मयि सह नौ व्रतपते व्रतिनोर् व्रतान्य् अंशुरंशुष् टे देव सोमाप्यायताम् इन्द्रायैकधनविद आ त्वम् इन्द्राय प्यायस्वा तुभ्यम् इन्द्रः प्यायताम् आप्यायय सखीन्त् सन्या मेधया स्वस्ति ते देव सोम सुत्याम् अशीय स्वस्त्य् उदृचम् एष्टा राया एष्टा वामानि प्रेषे भगाय ऋतम् ऋतवादिभ्यो नमो दिवे नमः पृथिव्यै ॥

या ते अग्ने ऽयाशया तनूर् वर्षिष्ठा गहेनष्ठा ।
त्वेषं वचो अपावधीर् उग्रं वचो अपावधीः ॥ स्वाहा ॥