०५

प्रजाभ्यस् त्वा प्रजास् त्वानुप्राणन्तु प्रजाः पाहि शुक्रं ते शुक्र शुक्रेण चन्द्रं चन्द्रेणामृतम् अमृतेन क्रीणामि देव सोम शक्म यत् ते गोर् अस्मे ते चन्द्राणि तपसस् तनूर् असि प्रजापतेर् वर्णः सहस्रपोषं पुष्यन्ती परमेण पशुना क्रीयस्वास्मे ते बन्धुः सुवाङ् नभ्राड् अङ्घारे बम्भारे ऽस्तर् अहस्त कृशान एते वः सोमक्रयणास् तान् रक्षध्वं मा वो दभन् दुश्चक्षा वो मावक्शत् ॥म्स्_१,२।५॥
सोमक्रयणास् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

स्वजा असि स्वभूर् अस्य् अस्मे कर्मणे जात ऋतेन त्वा गृह्णाम्य् ऋतेन नः पाहि मित्रो ना एहि सुमित्रधः सह रायस्पोषेणेन्द्रस्योरुम् आविश दक्षिणम् उशन्न् उशन्तं स्योनः स्योनम् ॥

उद् आयुषा स्वायुषोद् ओषधीनां रसेन ।
उत् पर्जन्यस्य धाम्नोदस्थाम् अमृतं अनु ॥

उर्व् अन्तरिक्षं वीह्य् अदित्याः सदा आसीद ॥

अस्तभ्नाद् द्याम् ऋषभो अन्तरिक्षम् अमिमीत वरिमाणं पृथिव्याः ।
आसीदद् विश्वा भुवनानि सम्राड् विश्वेत् तानि वरुणस्य व्रतानि ॥

वनेषु व्य् अन्तरिक्षं ततान वाजम् अर्वत्सु पयो अघ्न्यासु ।
हृत्सु क्रतुं वरुणं दिक्ष्व् अग्निं दिवि सूर्यम् अदधात् सोमम् अद्रौ ॥

धूर् असि ध्वर ध्वरन्तं यो अस्मान् ध्वराद् यं वयं ध्वराम तं ध्वर ॥

वारुणम् असि वरुणस् त्वोत्तभ्नातु वरुणस्य स्कम्भो ऽसि ॥

प्रच्यवस्व भुवनस्पते विश्वान्य् अभि धामानि ।
मा त्वा परिपरिणो मा परिपन्थिनो मा त्वा वृका अघायवो विदन् ॥

श्येनो भूत्वा परापत यजमानस्य नो गृहे संस्कृतम् ।
देवेभ्यः सुत्यायै ॥

नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद् ऋतं सपर्यत ।
दूरेदृशे देवजाताय केतवे दिवस् पुत्राय सूर्याय शंसत ॥

वारुणम् असि वरुणस् त्वोत्तभ्नातु वरुणस्य स्कम्भसर्जनम् असि ॥