इयं ते शुक्र तनूर् इदं वर्चस् तया सम्भव भ्राजं गछ जूर् असि धृता मनसा जुष्टा विष्णवे तस्यास् ते सत्यसवसः प्रसवे तन्वो यन्त्रम् अशीय स्वाहा शुक्रम् असि चन्द्रम् अस्य् अमृतम् असि वैश्वदेवम् असि चिद् असि मनासि धीर् असि दक्षिणासि यज्ञियासि क्षत्रियास्य् अदितिर् अस्य् उभयतःशीर्ष्णी सा नः सुप्राची सुप्रतीची भव मित्रस् त्वा पदि बध्नातु पूषाध्वनः पात्व् इन्द्रायाध्यक्षायानु त्वा माता मन्यताम् अनु पितानु भ्राता सगर्भ्यो ऽनु सखा सयूथ्यः सा देवि देवम् अछेहीन्द्राय सोमं रुद्रस् त्वावर्तयतु स्वस्ति सोमसखा पुनर् एहि वस्व्य् असि रुद्रास्य् अदितिर् अस्य् आदित्यासि चन्द्रासि रुद्रासि बृहस्पतिष् ट्वा सुम्ने रम्णातु रुद्रो वसुभिर् आचके पृथिव्यास् त्वा मूर्धन्न् आजिघर्मि यज्ञिया इडायास् पदे घृतवति स्वाहास्मे रमस्वास्मे ते रायस् तव रायस् तवतव रायो मा रायस्पोषेण वियौष्म त्वष्ट्रिमन्तस् त्वा सपेम ॥म्स्_१,२।४॥
सूर्यस्य चक्षुर् आरुहम् अग्नेर् अक्ष्णः कनीनिकाम् ।
यद् एतशेभिर् ईयसे भ्राजमानो विपश्चिता ॥
अपि पन्थाम् अगन्महि स्वस्तिगाम् अनेहसम् ।
येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ॥
आस्माको ऽसि शुक्रस् ते ग्रहः स्वाहा त्वा विचिद्भ्यः ॥
अभि त्यं देवं सवितारमोण्योः कविक्रतुम् अर्चामि सत्यसवसं रत्नधाम् अभि प्रियं मतिम् ।
ऊर्ध्वा यस्यामतिर् भा अदिद्युतत् सवीमनि हिरण्यपाणिर् अमिमीत सुक्रतुः कृपा स्वः ॥