तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने तञ् शकेयम् ॥म्स्_१,२।१॥
आकूत्यै प्रयुजे अग्नये स्वाहा मेधायै मनसे अग्नये स्वाहा दीक्षायै तपसे अग्नये स्वाहा सरस्वत्यै पूष्णे अग्नये स्वाहा ॥
आपो देवीर् बृहतीर् विश्वशम्भुवो द्यावापृथिवी उरो अन्तरिक्ष ।
बृहस्पतिर् नो हविषा वृधातु ॥ स्वाहा ॥
विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् ।
विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ॥ स्वाहा ॥
ऋक्सामयोः शिल्पे स्थस् ते वाम् आरभ आ मोदृचः पातं विष्णोः शर्मासि शर्म मे यछ नमस् ते अस्तु मा मा हिंसीः ॥
इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण संशिशाधि ।
ययाति विश्वा दुरिता तरेम सुतर्माणम् अधि नावं रुहेयम् ॥
सूर्याग्नी द्यावापृथिवी उरो अन्तरिक्षाप ओषधया उप मा दीक्षायां दीक्षापतयो ह्वयध्वं देव सवितस् त्वं दीक्षाया दीक्षापतिर् असीत्थं मा सन्तं पाह्य् ऊर्ग् अस्य् आङ्गिरस्य् ऊर्णम्रदा ऊर्जं मयि धेहीन्द्रस्य योनिर् असि गोपाय मा नमस् ते अस्तु मा मा हिंसीः ॥
कृषिं सुसस्याम् उत्कृषे सुपिप्पला ओषधीस् कृधि ।
विषाणे विष्यैतं ग्रन्थिं यद् अस्य गुष्पितं हृदि मनो यद् अस्य गुष्पितम् ॥
बृहन्न् असि वानस्पत्यः सुद्युम्नो द्युम्नं यजमानाय धेहि नक्षत्राणां मातीकाशात् पाहि ॥
आ वो देवास ईमहे वामं प्रयत्य् अध्वरे ।
यद् वो देवास आगुरि यज्ञियासो हवामहे ॥