देवा गातुविदो गातुं वित्त्वा गातुम् इत मनसस्पते सुधात्व् इमं यज्ञं दिवि देवेषु वाते धाः स्वाहा ॥म्स्_१,१।१३॥
आपो देवीः शुन्धत मा मधुमन्तं मधुमतीर् देवयज्यायै ॥
ओषधे त्रायस्वैनं स्वधिते मैनं हिंसीः ।
या ते शिवतमा तनूस् तयैनम् उपस्पृश ॥
देवश्रुद् इमान् प्रवपे स्वस्त्य् उत्तरं अशीय ॥
हिरण्यवर्णाः शुचयः पावकाः प्रचक्रमुर् हित्वावद्यम् आपः ।
शतं पवित्रा विततान्य् आसु तेभिर् मा देवः सविता पुनातु ॥
आपो मा मातरः सूदयन्तु घृतेन मा घृतप्वः पुनन्तु ।
विश्वं हि रिप्रं प्रवहन्तु देवीर् उद् इद् आभ्यः शुचिर् आ पूत एमि ॥
विष्णोः शर्मासि शर्म मे यच्छोर्जे त्वा महीनां पयो ऽस्य् अपाम् ओषधीनां रसो वर्चोधा असि वर्चो मे धेहि ॥
वृत्रस्यासि कनीनिका चक्षुषो मे वयोधा अन्तर् अहं त्वया द्वेषो अन्तर् अरातीर् दधे महता पर्वतेन चक्षुष्पा असि चक्षुर् मे पाहि ॥
चित्पतिस् त्वा पुनातु वाचस्पतिस् त्वा पुनातु ॥
देवस् त्वा सविता पुनात्व् अछिद्रेण पवित्रेण ।
वसोः सूर्यस्य रश्मिभिः ॥