विष्णूनि स्थ वैष्णवानि धामानि स्थ प्राजापत्यानि ॥म्स्_१,१।१२॥
सूयमे मे ऽद्य स्तं स्वावृतौ सूपावृतव् अग्नाविष्णू विजिहाथां मा मा हिंसिष्टं लोकं मे लोककृतौ कृणुतं मा मोदोषिष्टम् आत्मानं मे पातं शिवौ भवतम् अद्य नो विष्णोः स्थामासीत इन्द्रस् तिष्ठन् वीर्यम् अकृणोद् देवताभिः समारभ्य ॥
ऊर्ध्वो अध्वरो दिविस्पृग् अह्रुतो यज्ञो यज्ञपतेः ।
इन्द्रवान्त् स्ववान् बृहद्भाः ॥
वीहि मधोर् घृतस्य स्वाहा सं ज्योतिषा ज्योतिः ॥
वाजस्य मा प्रसवेनोद्ग्राभेणोदजिग्रभत् ।
अथा सपत्नान् इन्द्रो मे निग्राभेणाधरं अकः ॥
उद्ग्राभश् च निग्राभश् च ब्रह्म देवं अवीवृधत् ।
अथा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम् ॥
वसुर् अस्य् उपावसुर् असि विश्वावसुर् अस्य् अप्तुभी रिहाणा व्यन्तु वयो वशा पृश्निर् भूत्वा मरुतो गछ ततो नो वृष्ट्यावत ॥
संस्रावभागाः स्थेषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश् च देवाः ।
इमां वाचम् अभि विश्वे गृणन्तः स्वाहा देवा अमृता मादयन्ताम् ॥