देवीर् आपः शुद्धा यूयं देवान् युयुध्वं शुद्धा वयं सुपरिविष्टाः परिवेष्टारो वो भूयास्म कृष्णो ऽस्य् आखरेष्ठो ऽग्नये घृतं भव वेदिर् असि बर्हिषे त्वा जुष्टं प्रोक्षामि बर्हिर् असि वेद्यै त्वा जुष्टं प्रोक्षामि स्वाहा पितृभ्यो घर्मपावभ्यः ॥म्स्_१,१।११॥
आखरेष्ठस् : फ़्न् सन्धि इस् स्त्रन्गे। एद्।: आखरेष्ठा अग्नये। प्: आखरेष्ठः।
पूषा ते ग्रन्थिं विष्यतु विष्णोः स्तुपो ऽस्य् उरु प्रथस्वोर्णम्रदं स्वासस्थं देवेभ्यो गन्धर्वो ऽसि विश्वावसुर् विश्वस्माद् ईषमाणो यजमानस्य परिधिर् इड ईडित इन्द्रस्य बाहुर् असि दक्षिणो यजमानस्य परिधिर् इड ईडितो मित्रावरुणौ त्वोत्तरतः परिधत्तां यजमानस्य परिधिर् असीड ईडितः ॥
नित्यहोतारं त्वा कवे द्युमन्तः समिधीमहि ॥
वर्षिष्ठे अधि नाके पृथिव्याः सूर्यस् त्वा रश्मिभिः पुरस्तात् पातु कस्याश्चिद् अभिशस्त्या विश्वजनस्य विधृती स्थो वसूनां रुद्राणाम् आदित्यानां सदो ऽसि स्रुचां योनिर् द्यौर् असि जन्मना जुहूर् नाम प्रिया देवानां प्रियेण नाम्ना ध्रुवे सदसि सीदान्तरिक्षम् असि जन्मनोपभृन् नाम प्रिया देवानां प्रियेण नाम्ना ध्रुवे सदसि सीद पृथिव्य् असि जन्मना ध्रुवा नाम प्रिया देवानां प्रियेण नाम्ना ध्रुवे सदसि सीद ऋषभो ऽसि शाक्वरो वषट्कारस्य त्वा मात्रायां सादयामि ॥
ध्रुवा असदन्न् ऋतस्य योनौ सुकृतस्य लोके ता विष्णो पाहि ॥
पाहि यज्ञं पाहि यज्ञपतिं पाहि मां यज्ञन्यम् ॥