ताम् ऐरयंश् चन्द्रमसि स्वधाभिस् तां धीरासः कवयो ऽनुदिश्यायजन्त ॥म्स्_१,१।१०॥
प्रत्युष्टं रक्षः प्रत्युष्टारातिर् आयुः प्राणं मा निर्मार्जीश् चक्षुः श्रोत्रं मा निर्मार्जीर् वाचं पशून् मा निर्मार्जीर् यज्ञं प्रजां मा निर्मार्जीस् तेजो ऽसि शुक्रम् असि ज्योतिर् अस्य् अमृतम् असि वैश्वदेवम् असि ॥
हविर् असि वैश्वानरम् उन्नीतशुष्मं सत्यौजाः ।
सहो ऽसि सहस्वारातिं सहस्व पृतनायतः ॥
सहस्रवीर्यम् असि तन् मा जिन्वाज्यस्याज्यम् असि हविषो हविः सत्यस्य सत्यं सत्याभिघृतं सत्येन त्वाभिघारयाम्य् अदब्धेन त्वा चक्षुषावेक्षे रायस्पोषाय सुप्रजास्त्वाय ॥
धामासि प्रियं देवानाम् अनाधृष्टं देवयजनम् ।
देववीत्यै त्वा गृह्णामि ॥