०९

देवस् त्वा सविता श्रपयतु वर्षिष्ठे अधि नाके पृथिव्या अग्ने ब्रह्म गृह्णीष्व ॥म्स्_१,१।९॥

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आदद इन्द्रस्य बाहुर् असि दक्षिणः सहस्रभृष्टिः शततेजा वायुस् तिग्मतेजाः पृथिवि देवयजनि मा हिंसिषं ता ओषधीनां मूलं व्रजं गछ गोस्थानं वर्षतु ते पर्जन्यो बधान देव सवितः शतेन पाशैः परमस्यां परावति यो अस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अत्र बधान सो ऽतो मा मोचि मा वः शिवा ओषधयो मूलं हिंसिषं व्रजं गछ गोस्थानं वर्षतु ते पर्जन्यो बधान देव सवितः शतेन पाशैः परमस्यां परावति यो अस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अत्र बधान सो ऽतो मा मोचि द्रप्सस् ते दिवं मा स्कान् व्रजं गछ गोस्थानं वर्षतु ते पर्जन्यो बधान देव सवितः शतेन पाशैः परमस्यां परावति यो अस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अत्र बधान सो ऽतो मा मोचि वसवस् त्वा परिगृह्णन्तु गायत्रेण छन्दसा रुद्रास् त्वा परिगृह्णन्तु त्रैष्टुभेन छन्दसादित्यास् त्वा परिगृह्णन्तु जागतेन छन्दसापाररुं पृथिव्या अदेवयजनं सत्यसद् अस्य् ऋतसद् असि घर्मसद् असि ॥

पुरा क्रूरस्य विसृपो विरप्शिन उदादाय पृथिवीं जीरदानुम् ।