०८

पूष्णस् तान्य् अपि व्रत इन्द्रवायू विमुञ्चताम् ॥म्स्_१,१।८॥

देवस्य वः सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां संवपामि ॥

देवो वः सवितोत्पुनात्व् अछिद्रेण पवित्रेण ।
वसोः सूर्यस्य रश्मिभिः ॥

सम् आपा ओषधीभिर् गछन्तां सम् ओषधयो रसेन ।
सं रेवतीर् जगतीः शिवाः शिवाभिः समसृक्षतापः ॥

सीदन्तु विशो जनयत्यै त्वा घर्मो ऽसि विश्वायुर् घर्म घर्मे श्रयस्वोरु प्रथस्वोरु ते यज्ञपतिः प्रथतां सं ते तन्वा तन्वः पृच्यन्ताम् ॥

परि वाजपतिः कविर् अग्निर् हव्यान्य् अक्रमीत् ।
दधद् रत्नानि दाशुषे ॥