वर्षवृद्धम् असि प्रति त्वा वर्षवृद्धं वेत्तु परापूतं रक्षः परापूतारातिः प्रविद्धो रक्षसां भागो ऽदित्यास् त्वग् अस्य् अवधूतं रक्षो ऽवधूतारातिर् अदित्यास् त्वग् असि प्रति त्वादित्यास् त्वग् वेत्तु धिषणासि पार्वती प्रति त्वादित्यास् त्वग् वेत्तु धिषणासि पार्वती प्रति त्वा पार्वती वेत्त्व् अदित्याः स्कम्भो ऽसि धान्यम् असि धिनुहि देवान् प्राणाय त्वापानाय त्वा व्यानाय त्वा दीर्घाम् अनु प्रसृतिं संस्पृशेथाम् आयुषे वो मित्रस्य वश् चक्षुषावेक्षे देवो वः सविता हिरण्यपाणिर् उपगृह्णातु ॥म्स्_१,१।७॥
निर्दग्धं रक्षो निर्दग्धारातिः समुद्रं मा धाग् ध्रुवम् असि पृथिवीं दृंहापाग्ने ऽग्निम् आमादं जहि निः क्रव्यादं नुदस्वाग्ने देवयजनं वह धरुणम् अस्य् अन्तरिक्षं दृम्ह धर्त्रम् असि दिवं दृम्ह धर्मासि विश्वा विश्वानि दृम्ह चिद् असि परिचिद् असि विश्वासु दिक्षु सीद सजातान् अस्मै यजमानाय परिवेशय सजाता इमं यजमानं परिविशन्तु वसूनां रुद्राणाम् आदित्यानां भृगूणाम् अङ्गिरसां घर्मस्य तपसा तप्यध्वम् ॥
यानि घर्मे कपालान्य् उपचिन्वन्ति वेधसः ।