०६

अग्नये वो जुष्टान् प्रोक्षाम्य् अमुष्मै वो जुष्टान् यद् वो ऽशुद्ध आलेभे तञ् शुन्धध्वम् अदित्यास् त्वग् अस्य् अवधूतं रक्षो ऽवधूतारातिर् अदित्यास् त्वग् असि प्रति त्वादित्यास् त्वग् वेत्तु पृथुग्रावासि वानस्पत्यः प्रति त्वादित्यास् त्वग् वेत्त्व् अग्नेर् जिह्वासि वाचो विसर्जनम् आयुषे वो बृहद्ग्रावासि वानस्पत्यो देवेभ्यो हव्यं शमीष्व सुशमि शमीष्व कुटरुर् असि मधुजिह्वस् त्वया वयं सङ्घातंसङ्घातं जेष्मेषम् आवदोर्जम् आवद रायस्पोषम् आवद ॥म्स्_१,१।६॥