देवानाम् असि वह्नितमं सस्नितमं पप्रितमं जुष्टतमं देवहूतमम् अह्रुतम् असि हविर्धानं दृंहस्व मा ह्वार् विष्णोः क्रमो ऽस्य् उरु वाताय मित्रस्य वश् चक्षुषा प्रेक्षे देवस्य वः सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां यछन्तु पञ्च गोपीथाय वो नारातये ऽग्नये वो जुष्टान् निर्वपाम्य् अमुष्मै वो जुष्टान् इदं देवानाम् इदम् उ नः सह दृंहन्तां दुर्याः स्वाहा द्यावापृथिवीभ्यां निर् वरुणस्य पाशाद् अमुक्षि स्वर् अभिव्यक्शं ज्योतिर् वैश्वानरम् उर्व् अन्तरिक्षं वीह्य् अदित्या व उपस्थे सादयामि ॥म्स्_१,१।५॥
देवो वः सवितोत्पुनात्व् अछिद्रेण पवित्रेण ।
वसोः सूर्यस्य रश्मिभिः ॥