०४

वेषाय वां कर्मणे वां सुकृताय वां देवीर् आपो ऽग्रेगुवो ऽग्रेणीयो ऽग्रे ऽस्य यज्ञस्य प्रेताग्रं यज्ञं नयताग्रं यज्ञपतिं युष्मान् इन्द्रो ऽवृणीत वृत्रतूर्ये यूयम् इन्द्रम् अवृणीध्वं वृत्रतूर्ये प्रोक्षिताः स्थ संसीदन्तां दैवीर् विशो वानस्पत्यासि वर्षवृद्धम् अस्य् उर्व् अन्तरिक्षं वीहि प्रत्युष्टं रक्षः प्रत्युष्टारातिर् धूर् असि ध्वर ध्वरन्तं यो अस्मान् ध्वराद् यं वयं ध्वराम तं ध्वर ॥म्स्_१,१।४॥