०३

पोषाय त्वादित्या रास्नासि काम् अधुक्षः सा विश्वायुर् अस्त्व् असौ काम् अधुक्षः सा विश्वभूर् अस्त्व् असौ काम् अधुक्षः सा विश्वकर्मास्त्व् असौ हुतः स्तोको हुतो द्रप्सो ऽग्ने पाहि विप्रुषः सुपचा देवेभ्यो हव्यं पचाग्नये त्वा बृहते नाकाय स्वाहा द्यावापृथिवीभ्याम् इन्द्राय त्वा भागं सोमेनातनच्मि विष्णो हव्यं रक्षस्वापो जागृत ॥म्स्_१,१।३॥