०२

अयुपिता योनिर् अदित्या रास्नासीन्द्राण्याः सन्नहनं पूषा ते ग्रन्थिं ग्रथ्नातु स ते मास्थाद् इन्द्रस्य त्वा बाहुभ्याम् उद्यछे बृहस्पतेर् मूर्ध्नाहराम्य् उर्व् अन्तरिक्षं वीह्य् अदित्यास् त्वा पृष्ठे सादयामि ॥म्स्_१,१।२॥

शुन्धध्वं दैव्याय कर्मणे वसूनां पवित्रम् असि शतधारं सहस्रधारम् अछिद्रतनु ॥

द्यौर् असि पृथिव्य् असि मातरिश्वनो घर्मः ॥

विश्वहोतुर् धामन्त् सीद ॥