इषे त्वा सुभूताय वायवः स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वम् अघ्न्या देवेभ्या इन्द्राय भागं मा वः स्तेन ईशत माघशंसो धुर्वा अस्मिन् गोपतौ स्यात बह्वीर् यजमानस्य पशून् पाहि ॥म्स्_१,१।१॥
गोषद् असि प्रत्युष्टं रक्षः प्रत्युष्टारातिः ॥
प्रेयम् अगाद् धिषणा बर्हिर् अछ मनुना कृता स्वधया वितष्टा ।
तयावहन्ते कवयः पुरस्तात् ॥
देवानां परिषूतम् असि विष्णोः स्तुपो ऽतिसृष्टो गवां भागो देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिर् देवसदनं दामि ॥
अतस् त्वं बर्हिः शतवल्शं विरोह सहस्रवल्शा वि वयं रुहेम ॥