अथ भगवाञ्छाकायन्यः सुप्रीतोऽब्रवीद्राजानं महाराज
बृहद्रथेक्ष्वाकुवंशध्वजशीर्षात्मजः कृतकृत्यस्त्वं
मरुन्नाम्नो विश्रुतोऽसीत्ययं वा व खल्वात्मा ते कतमो
भगवान्वर्ण्य इति तं होवाच इति ॥ १॥

य एषो बाह्यावष्टम्भनेनोर्ध्वमुत्क्रान्तो
व्यथमानोऽव्यथमानस्तमः प्रणुदत्येष आत्मेत्याह
भगवानथ य एष सम्प्रसादोऽस्माञ्छरीरात्समुत्थाय
परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति
होवाचैतदमृतमभयमेतद्ब्रह्मेति ॥ २॥

अथ खल्वियं ब्रह्मविद्या सर्वोपनिषद्विद्या वा राजन्नस्माकं
भगवता मैत्रेयेण व्याख्याताहं ते
कथयिष्यामीत्यथापहतपाप्मानस्तिग्मतेजस ऊर्ध्वरेतसो
वालखिल्या इति श्रुयन्तेऽथैते
प्रजापतिमब्रुवन्भगवञ्शकटमिवाचेतनमिदं शरीरं
कस्यैष खल्वीदृशो महिमातीन्द्रियभूतस्य
येनैतद्विधमिदं चेतनवत्प्रतिष्ठापितं प्रचोदयितास्य को
भगवन्नेतदस्माकं ब्रूहीति तान्होवाच ॥ ३॥

यो ह खलु वाचोपरिस्थः श्रूयते स एव वा एष शुद्धः
पूतः शून्यः शान्तो प्राणोऽनीशत्माऽनन्तोऽक्षय्यः स्थिरः
शाश्वतोऽजः स्वतन्त्रः स्वे महिम्नि तिष्ठत्यनेनेदं शरीरं
चेतनवत्प्रतिष्ठापितं प्रचोदयिता चैषोऽस्येति ते
होचुर्भगवन्कथमनेनेदृशेनानिच्छेनैतद्विधमिदं
चेतनवत्प्रतिष्ठापितं प्रचोदयिता चैषोऽस्येति कथमिति
तान्होवाच ॥ ४॥

स वा एष सूक्ष्मोऽग्राह्योऽदृश्यः पुरुषसञ्ज्ञको
बुद्धिपूर्वमिहैवावर्ततेंऽशेन सुषुप्तस्यैव बुद्धिपूर्वं
निबोधयत्यथ योह खलु वावाइतस्यांशोऽयं
यश्चेतनमात्रः प्रतिपूरुषं क्षेत्रज्ञः
सङ्कल्पाध्यवसायाभिमानलिङ्गः प्रजापतिर्विश्वक्षस्तेन
चेतनेनेदं शरीरं चेतनवत्प्रतिष्ठापितं प्रचोदयिता
चैषोऽस्येति ते होचुर्भगवन्नीदृशस्य कथमंशेन
वर्तनमिति तान्होवाच ॥ ५॥

प्रजापतिर्वा एषोऽग्रेऽतिष्ठत्स नारमतैकः स
आत्मनमभिध्यायद्बव्हीः प्रजा असृजत्त अस्यैवात्मप्रबुद्धा
अप्राणा स्थाणुरिव तिष्ठमाना अपश्यत्स नारमत
सोऽमन्यतैतासं प्रतिबोधनायाभ्यन्तरं प्राविशानीत्यथ स
वायुमिवात्मानं कृत्वाभ्यन्तरं प्राविशत्स एको नाविशत्स
पञ्चधात्मानं प्रविभज्योच्यते यः प्राणोऽपानः समान
उदानो व्यान इति ॥ ६॥

अथ योऽयमूर्ध्वमुत्क्रामतीत्येष वाव स प्राणोऽथ
योयमावञ्चं सङ्क्रामत्वेष वाव सोऽपानोऽथ योयं
स्थविष्ठमन्नधातुमपाने स्थापयत्यणिष्ठं चाङ्गेऽङ्गे
समं नयत्येष वाव स समानोऽथ योऽयं पीताशितमुद्गिरति
निगिरतीति चैष वाव स उदानोऽथ येनैताः शिरा
अनुव्याप्ता एष वाव स व्यानः ॥ ७॥

अथोपांशुरन्तर्याम्यमिभवत्यन्तर्याममुपांशुमेतयोरन्तराले
चौष्ण्यं मासवदौष्ण्यं स पुरुषोऽथ यः पुरुषः
सोऽग्निर्वैश्वानरोऽप्यन्यत्राप्युक्तमयमग्निर्वैश्वानरो
योऽयमनन्तः पुरुषो येनेदमन्नं पच्यते यदिदमद्यते
तस्यैष घोषो भवति यदेतत्कर्णावपिधाय शृणोति स
यदोत्क्रमिष्यन्भवति नैनं घोषं शृणोति ॥ ८॥

स वा एष पञ्चधात्मानं प्रविभज्य निहितो गुहायां
मनोमयः प्राणशरीरो बहुरूपः सत्यसं कल्प आत्मेति स वा
एषोऽस्य हृदन्तरे तिष्ठन्नकृतार्थोऽमन्यतार्थानसानि
तत्स्वानीमानि भित्त्वोदितः पञ्चभी रश्मिभिर्विषयानत्तीति
बुद्धीन्द्रियाणि यानीमान्येतान्यस्य रश्मयः कर्मेन्द्रियाण्यस्य
हया रथः शरीरं मनो नियन्ता प्रकृतिमयोस्य प्रतोदनेन
खल्वीरितं परिभ्रमतीदं शरीरं चक्रमिव मृते च
नेदं शरीरं चेतनवत्प्रतिष्ठापितं प्रचोदयिता
चैषोऽस्येति ॥ ९॥

स वा एष आत्मेत्यदो वशं नीत इव सितासितैः
कर्मफलैरभिभूयमान इव प्रतिशरीरेषु
चरत्यव्यक्तत्वात्सूक्ष्मत्वाददृश्यत्वादग्राह्यत्वान्निर्ममत्वा
च्चानवस्थोऽकर्ता कर्तेवावस्थितः ॥ १०॥

स वा एष शुद्धः स्थिरोऽचलश्चालेपोऽव्यग्रो निःस्पृहः
प्रेक्षकवदवस्थितः स्वस्य चरितभुग्गुणमयेन
पटेनात्मानमन्तर्धीयावस्थित इत्यवस्थित इति ॥ ११॥ इति
द्वितीयः प्रपाठकः ॥