१६

रथचक्रस्य चित्यस्य सङ्क्षेपोक्तस्य विष्णुना अथ धातुर्निर्विष्ठस्य त्रिगुणान्यं बहिर्बहिः लीयन्ते मण्डले यस्य सप्त सार्धा नरा बुधैः १
मुच्यन्ते विवरेष्वन्ये क्षेत्रादभ्यधिकास्त्रयः २
तस्य चक्रविधानं तु नेमिररेभ्यो विस्तरः मण्डलानां च विष्कम्भः त्रिभागः करणानि च ३ नरार्धेनाभिलिखेन्नाभिस्ततः प्रस्तारगोचरा अरेभ्योऽभ्यधिका नेमिस्त्रिषष्ठेनाक्षरागारम् त्रिंशतेन सविंशेन अधिकैश्चार्धपञ्चमैः मिमायाङ्गुलैर्वा मध्यं कुर्याद्विंशेन परिलेखनम् ४
प्रथमे प्रस्तरे रथचक्रस्य सृणुतेष्टकाः चतुर्भिरधिकं वेत्थ चत्वारिंशच्छतत्रयम् ५ द्वितीयेऽभ्यधिका यान्तु चतुर्विंशतिरिष्टकाः पञ्चकोणास्त्रिकोणाश्च नेम्यरेभ्यः च सन्धिषु ६
इष्टकानां सहस्रेण शतैः सप्तभिरेव च अष्टषष्ट्या च चक्रस्य चितयः पञ्च पूरिताः ७
इति शुल्बसूत्रं समाप्तम् ८