रथचक्रस्य चित्यस्य सङ्क्षेपोक्तस्य
विष्णुना अथ धातुर्निर्विष्ठस्य त्रिगुणान्यं बहिर्बहिः
लीयन्ते मण्डले यस्य सप्त सार्धा नरा बुधैः १
मुच्यन्ते
विवरेष्वन्ये क्षेत्रादभ्यधिकास्त्रयः २
तस्य चक्रविधानं
तु नेमिररेभ्यो विस्तरः मण्डलानां च विष्कम्भः त्रिभागः करणानि च ३
नरार्धेनाभिलिखेन्नाभिस्ततः प्रस्तारगोचरा अरेभ्योऽभ्यधिका
नेमिस्त्रिषष्ठेनाक्षरागारम् त्रिंशतेन सविंशेन अधिकैश्चार्धपञ्चमैः
मिमायाङ्गुलैर्वा मध्यं कुर्याद्विंशेन परिलेखनम् ४
प्रथमे
प्रस्तरे रथचक्रस्य सृणुतेष्टकाः चतुर्भिरधिकं वेत्थ
चत्वारिंशच्छतत्रयम् ५
द्वितीयेऽभ्यधिका यान्तु
चतुर्विंशतिरिष्टकाः
पञ्चकोणास्त्रिकोणाश्च नेम्यरेभ्यः च सन्धिषु
६
इष्टकानां सहस्रेण शतैः सप्तभिरेव च अष्टषष्ट्या च चक्रस्य चितयः पञ्च
पूरिताः ७
इति शुल्बसूत्रं समाप्तम् ८