अवलम्बककुष्ठे तु यो भवेत्षोडशाङ्गुले सौत्रामण्या भवेदेष
प्रक्रमो मानकर्मणि १
प्रक्रमस्य तृतीयेन सौमिकी
सार्पराज्ञिकी सन्तृतीयैस्त्रिभिश्चान्यैः
सिद्धमौत्तरवेदिकम् २
चतुर्दशाङ्गुलो वा
स्यात्प्रक्रमस्तेन सौमिकी
शतैर्द्वादशभिर्वापि मिनुयात्पाशुकामिव ३
सचतुर्थे वनं षड्भिर्नवभिर्वाथ सप्तभिः नवभिर्वापरं चक्रं करणाधे न
लेखयेत् ४
चतुर्षु निवपेदेषां सावित्रादिषु यो विधिः अरुणे जानुदघ्ने
निखन्यादद्भिस्तु पूरयेत् ५
चतुरश्रमथापि मण्डलं द्विविधं
गार्हपत्यलक्षणं व्यायाममितं चतुर्भुजं
पुरुषार्धेन तु मण्डलं परिलिखेत् ६
व्यायामतृतीयमायान्तं
चतुरश्रं सप्त-मभागविस्तृतं प्रागाचितमुत्तराचितं व्यत्यासे तदथैकविंशकम् ७
पुरु-षस्य तृतीयमायान्तं चतुरश्रं षड्भागविस्तृतम् । प्रथिकश्च तदायतो
भवेन्मध्ये तेन समायतो भवेन्मध्ये तेन समास्तिके शेषौ । कोणौ
प्रथिकमितौ समौ तद्विस्तारकृतौ विशाखः ८
षड्भागकृतायामो
भवे-द्द्व्यर्धे तु त्रिकोणसंस्थिते ९
चतुरश्रविपाणकः
प्रथिकोऽर्धं प्रथिकश्च यो मितः १०
करणानि भवन्ति मण्डले चत्वारि
प्रमितानि भागशः ११
मध्येऽस्य चतस्र इष्टकाः
तत्पूर्वापरयोर्द्वयोर्द्वयम् । प्रथिकोऽर्ध
वि-षाणिकद्वयं पुनरेव पुनरैति मण्डलमर्धप्रथिकद्वये समं सम्पूर्णम् ।
तद-थैकविंशकम् १२
व्यत्यासमुदङ्मुखेन सह व्यत्यस्येद्वेत्युत्तरोत्तरम् १३
अध्यर्धं पद्यं च पद्यार्धपद्यपादवत्पद्यार्धोत्सेधमित्याहुर्गायत्रे
करणानि च १४
चतुर्गुणां द्विपुरुषां रज्जुं कृत्वा समाहिताम् ।
सम्भागज्ञातृतोदान्तां पञ्चाङ्गीं तद्विदो विदुः १५
मध्यमात्पाशयोस्तोदो गायत्रमानमुच्यते ।
सारत्नावर्धपुरुषे । चतुरश्रस्तया मितः ।
पक्षपुच्छान्तयोर्वृद्ध्या गायत्रेणेतरेषुभिः १६
इष्टका शोषपाकाभ्यां त्रिंशन्मानात्तु हीयते १७
ततः क्षेत्रं
त्रिचतुर्भागं निरुह्यादापयेच्छिवम् १८
अंस उत्तरेंऽसे च
प्राच्योऽध्यर्धास्तु विंशतिर्दश पुच्छे द्विर्द्वादशकौ पक्षयोरभितः पुच्छे तु पञ्च देयाः पञ्च प्राचीः पञ्चदश दद्याच्छिरसि
। चतुरशीती पक्षयोः पञ्चाशतं त्रिंशतमात्मनि पद्या भवन्ति शतमेकोनं
पुच्छेंऽसश्रोण्योर्विंशतिर्विंशतिः पुच्छे
पक्षयोर्दशदशाहुः १९
अध्यर्धा दश शिरसि
प्राच्युदीच्यो भवन्ति २०
पूर्वोपहिता प्रथमा पदयुजः सर्वा ।
द्वितीयावाग्युजोऽश्विनी २१
व्यत्यासं चिनुयादेवं जानुनास्य
वर्त्मसु २२
त्रिपदा अल्पक्षेत्रा एकचितिकाश्चतुः करणयुक्ताः
धिष्ण्या भवन्ति साग्निचित्यमन्त्राः सातिरिक्ताश्च २३
अध्यर्धास्तु चतस्रो
द्वे मध्ये नक-लु!श्चतुर्भागः २४
अश्मा नवमोऽग्नीध्रे २५
होत्रीयमतः
संवक्ष्यामो । अंसश्रोण्योः पद्याश्रया नकुलका बहिस्तिसृषु
दिक्ष्वन्तश्चतुर्दश पदक-चतुर्थाः स यः प्रतिदिशमष्टौ पद्या दिक्षु
विदिक्षु २६
ब्राह्मणाच्छंस्ये दश चैका स्युर्मध्ये द्वौ द्वौ चतुर्थ्यौ
नकुलश्च २७
अभितस्तिस्रः पद्या द्वे मध्येऽध्यर्धे शिष्टेष्वष्टौ २८
अध्यर्धाः षण्मार्जालीयेंऽस मार्जालीयं स्याद्दक्षिणपार्श्वेन शामित्रं
चात्वालस्य च पश्चाद् वभृथकल्पेऽप्येवं
पदमेकतस्त्रिपदस्तिस्रोऽतिरिक्तेष्विति
२९