१०

वैष्णवे या प्रमेयाय शुल्बविद्भिश्च सर्वशः सङ्ख्यातृभ्यः प्रवक्तृभ्यो नमो भरन्तो यो मसे इदं भूम्य भजामहे या नो मानकृतामिव यज्ञियं मानमुत्तमं वर्धमानं स्वे दमे १ स्पष्टा भूमिऋजुः शङ्कुर्मौञ्जं शुल्बमबन्धुरम् चित्रादौ नाकृतिः कार्या तिथ्यृक्षं वरुणशुभम् २
सर्वाः प्रागायता वेद्यः करणं यस्कदेहिकम् अर्धेनार्वसमं सर्वमुच्छेदो जानु पञ्चकम् ३
मध्यमेऽर्धमृतव्यानां नाकसत्पञ्चचूडयोः करणाद्यर्थमुद्दिश्य क्षेत्रमर्धाष्टमान्तरः ४ अनःसिद्धं हविर्धानं पात्रसिद्धाः खराः खराः चात्वालः पशुभिः सिद्धो हविर्भिः साग्निकाः खराः ५
मण्डलार्धं चतुःस्रक्ति रत्निनां विहिताः खराः अरत्निर्घन एतेषां भूयस्त्वे भूयसीबिधौ ६
पूर्वश्चतुर्विंशतिभागे लेख्यश्चतुर्वंशैरालिखितस्तु पश्चिमः स्याद्दक्षिणेऽष्टद्विगुणेन लेख्यस्त्रिंशद्भिरायम्य हरेत्तुरायम् ७
उदक्प्रक्रम्य चात्वालं शामित्रं प्रक्रमे ततः भूयस्तत्पशुभूयस्त्वे वृद्धिरुत्तरतो भवेत् ८
आयामबाहुं निक्षिप्य विस्तरस्तु तथा पृथक् सोऽध्यर्धं गुणयेद्राशिं स सर्वगुणितो घनः ९
आयाममायामगुणं विस्तारं विस्तरेण तु समस्य वर्गमूलं यत्तत्कर्णं तद्विदो विदुः १० श्रवणाभिजितोर्बहुलातिष्ययोर्वा चित्रास्वात्योरन्तरेऽप्स्वग्निना वा ११
नक्तं प्राचीभास्करश्रायमाहुः । शङ्कुलिप्ते मण्डले प्राक्पराक्चेति १२