०८

द्वितीयायां पुरस्तात्स्वयमातृण्णायाः प्रथमद्वितीयतृतीयेष्वृतव्या वाय-व्या अपस्या इति यथासङ्ख्यम् । तिस्रस्तिस्रो दक्षिणेषु वंशेषु दक्षिणो-त्तरा द्वे द्वे उत्तरस्योत्तरयोर्नवमेऽभितः शेषा यथापस्याः १
तृतीयायां दश द्वादश नवमेऽअभितो । अष्टमे सप्त पुरस्तात्पश्चाच्च समीचीरभितः स्वयमातृण्णाया अर्धोत्सेधा अष्टौ नानामन्त्रा उत्तमायां वा २
चतुर्थ्या-मेकैकां नवमेनवमेऽभितः पुरस्तादुत्तरस्य वंशस्य मध्ये प्रथमां व्य-त्यासमितरा । एवमेव स्पृतः पुरस्ताद्दक्षिणस्य वंशस्य मध्ये प्रथमां व्यत्यासमितराः । षट्सप्ताष्टमेषु दक्षिणतो युग्मायुग्मा उत्तरतस्त्रिव-र्गान्कुर्यात्सप्तदश दक्षिणतः पञ्चदशोत्तरतः ३ पञ्चम्यामेकैकां प्राणभृदा-धिषु शेषं छन्दसां विराजश्च यथातिमात्राः षट्सप्ताष्टमेष्वभितो यथासं-ख्यम् ४ अर्धेष्टकाभिः पूरयित्वा दक्षिणतः प्राचीः स्तोमभागाः पश्चिमाश्च युग्मा उत्तरतस्त्रिवर्गान्कुर्यादेकत्रिंशतम् । पश्चात्प्रत्यञ्चं त्रिवर्गेण नाक-सदं च पश्चात्पुरीषवत्या यवादिना सनाम्नीरुपशीवरीर्घृतप्लुता इति य-थासङ्ख्यम् । तुरीयाणि मध्ये यथा प्राणभृतोऽतिमात्रा मध्यमां स्वयमातृण्णासंहितामुत्तरस्तु विकर्णीम् ५
इति सुपर्णस्य ६