अथात उत्तरेष्टकं व्याख्यास्यामः १
ऊर्धबाहुना
यजमानेन वेणुं विमिमीते २
तत्समोऽन्यतरः सारत्निर्द्वितीयस्तस्य पुरुषे
लक्षणमरत्नि वितस्त्योश्चोभयोरर्धपुरुषे ३
शिरसि परिश्रिते
यूपायावशिष्य शेषमनुरज्जु पुरुषौ सन्धाय पञ्चाङ्ग्या
शङ्कुं विनिहन्ति तयोः सन्धावर्धयोश्च ४
यावभितो मध्यमं शङ्कुं
तयोर्वेणू निद्याय दक्षिणतः पुरुषसन्निपाते तोदं करोति ५
मध्यमे शङ्कौ वेणुं निधायाध्यधि तोदं हृत्वा दक्षिणतः पुरुषे
शङ्कुं निहन्ति ६
पूर्वे शङ्कौ वेणुं निधाय द्वितीयं दक्षिणतः
पुरस्तात्पुरुषसन्निपाते शङ्कुं निहन्त्यर्धे चैवं पश्चात् ७
एतेनोत्तरार्धो व्याख्यातः ८
दक्षिणस्य व-र्गस्य यावभितो मध्यमं
शङ्कुं तयोर्वेणू निधाय दक्षिणतः पुरुषसन्निपाते तोदं करोति ९
मध्यमे
शङ्कौ वेणुं निधायाध्यपि तोदं हृत्वा दक्षिणतः सारत्नौ शङ्कुं
निहन्ति १०
यः सारत्निस्तं मध्यमस्य पूर्वे निधाय द्वितीयं दक्षिणतः
पुरस्तात्सारत्निमर्धपुरुषेण सन्निपात्य शङ्कुं निहन्त्येवं पश्चात् ११
एतेनैवोत्तरपक्षो व्याख्यातः १२
पुच्छं सवितस्तिररत्निस्थाने १३
पूर्वस्य पुरस्तादर्धपुरुषेण पञ्चाङ्ग्या शिरो विमिमीते १४